|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥S
5.143. अध्यायः 143
Mahabharata - Udyoga Parva - Chapter Topics
कर्णेन कृष्णंप्रति पृथिवीवीनाशे कशुनिदुश्शासनयोः स्वस्यच मूलत्वकथनम् । 1 ॥ तथा पार्थधार्तराष्ट्राणां जयपराजयसूचकनिमित्तोपवर्णनपूर्वकं कृष्णमालिङ्ग्य प्रतिनिवर्तनम् ॥ 2 ॥ सात्यकिनासह कृष्णस्य उपप्लाव्यागमनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-143-0x(3805)(36685)
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्।
अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदनम् ॥ 5-143-1(36686)
जानन्मां किं महाबाहो संमोहयितुमिच्छसि।
योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ॥ 5-143-2(36687)
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥ 5-143-3(36688)
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्।
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥ 5-143-4(36689)
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥ 5-143-5(36690)
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन।
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥ 5-143-6(36691)
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।
संसन्त इव वार्ष्णेय विविधा रोमहर्षणाः ॥ 5-143-7(36692)
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥ 5-143-8(36693)
कृत्वा चाङ्गारको वक्रं ज्योष्ठायां मधुसूदन।
अनुराधां प्रार्थयते मैत्रं संगमयन्निव । 5-143-9(36694)
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥ 5-143-10(36695)
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च।
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकंपनाः ॥ 5-143-11(36696)
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥ 5-143-12(36697)
प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम्।
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥ 5-143-13(36698)
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते।
वाजिनां वारणानां च मनुष्याणां च केशव ॥ 5-143-14(36699)
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन।
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥ 5-143-15(36700)
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते।
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥ 5-143-16(36701)
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।
वाचश्चाप्यशरीरिण्यस्तकत्पराभवलक्षणम् ॥ 5-143-17(36702)
मयूराः पुण्यशकुना हंससारसचातकाः ।
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥ 5-143-18(36703)
गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः ।
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान् ॥ 5-143-19(36704)
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः ।
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥ 5-143-20(36705)
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥ 5-143-21(36706)
मांसशोणितवर्षं च वृष्टं देवेन माधव ।
तथा गन्धर्वनगरं भानुमत्समुपस्थितम् ॥ 5-143-22(36707)
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ।
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ॥ 5-143-23(36708)
उदयास्तमने संध्ये वेदयन्ती महद्भयम् ।
शिवा च वाशते घोरं तत्पराभवलक्षणम् ॥ 5-143-24(36709)
एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन ।
उत्सृजन्ति महद्धोरं तत्पराभवलक्षणम्॥ 5-143-25(36710)
कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः ।
सन्ध्यामिमुखा यान्ति तत्पराभवलक्षणम् ॥ 5-143-26(36711)
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥ 5-143-27(36712)
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा ।
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन। 5-143-28(36713)
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ॥
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव। 5-143-29(36714)
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ॥
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः। 5-143-30(36715)
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः । 5-143-31(36716)
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला । 5-143-32(36717)
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥
अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः । 5-143-33(36718)
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्। 5-143-34(36719)
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः।
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम् ॥ 5-143-35(36720)
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे।
विदितं मे हृषीकेश श्रिया परमया ज्वलन् ॥ 5-143-36(36721)
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः।
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥ 5-143-37(36722)
यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः।
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥ 5-143-38(36723)
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥ 5-143-39(36724)
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः ॥ 5-143-40(36725)
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन ।
धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव ॥ 5-143-41(36726)
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥ 5-143-42(36727)
उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ ।
मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो ॥ 5-143-43(36728)
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥ 5-143-44(36729)
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।
गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥ 5-143-45(36730)
कृष्ण उवाच। 5-143-46x(3806)
अपस्थितविनाशेयं नूनमद्य वसुंधरा।
यथा हि मे वचः कर्ण नोपैति हृदयं तव ॥ 5-143-46(36731)
सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ 5-143-47(36732)
कर्ण उवाच। 5-143-48x(3807)
अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात्।
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात् ॥ 5-143-48(36733)
अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम्।
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥ 5-143-49(36734)
वैशम्पायन उवाच। 5-143-50x(3808)
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्।
विसर्जितः केशवेन रथोपस्थादवातरत् ॥ 5-143-50(36735)
ततः स्वरथामस्थाय जाम्बूनदविभूषितम्।
महात्मा वै निववृते राधेयो दीनमानसः ॥ 5-143-51(36736)
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः।
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥ ॥ 5-143-52(36737)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिचत्वारिंशदधिकशततमोध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-143-21 उदपानाः कूपादयो जलाशयाः ॥ 5-143-23 गन्धर्वनगरं सप्राकारम्। परिघः परिवेषः । तत्राकाशे गन्धर्वनगरोपर्येव ॥ 5-143-24 शिवा श्रृगालः वाशते शब्दं करोति ॥ 5-143-30 सहस्रपादं सहस्रस्तम्भम् ॥ 5-143-32 तव पृथिवीति संबन्धः। त्वच्छरीरमित्यर्थः । परिक्षिप्ता परिवेष्टिता ॥ 5-143-46 तव हृदयं कर्तृ मम वचो नोपैति नाङ्गीकरोति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|